|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.99. अध्यायः 099
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति बीजयोन्योः शुद्ध्यशुद्धिनिरूपणम्॥ 1 ॥ तथा गायत्रीमहिमानुवर्णनम्॥ 2 ॥ ब्राह्मणमहिमप्रशंसनम्। ब्राह्मणावमन्तॄणां नारकयातनानुवर्णनं च ॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
श्रुत्वैवं सात्विकं दानं राजसं तामसं तथा।
पृथक्पृथक्त्वेन गतिं फलं चापि पृथक्पृथक्॥ 14-99-1(95495)
अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः।
युधिष्ठिरो धर्मरतः केशवं पुनरब्रवीत्॥ 14-99-2(95496)
बीजयोनिविशुद्धानां लक्षणानि वदस्व मे।
बीजदोषेण लोकेश जायन्ते च कथं नराः॥ 14-99-3(95497)
आचारदोषं देवेशं वक्तुगर्हस्यशेषतः॥
ब्राह्मणानां विशेषं च गुणदोषौ च केशव॥ 14-99-4(95498)
चातुर्वर्ण्यस्य कुत्स्नस्य वर्तमानाः प्रतिग्रहे।
केन विप्रा विशेषेण तरन्ते तारयन्ति च।
एतान्कथय देवेश त्वद्भक्तस्य नमोस्तु ते॥ 14-99-5(95499)
भगवानुवाच। 14-99-6x(7947)
शृणु राजन्यथावृत्तं बीजयोनिं शुभाशुभम्।
येन तिष्ठति लोकोयं विनश्यति च पाण्डव॥ 14-99-6(95500)
अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि।
स बीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत्॥ 14-99-7(95501)
कन्या चाक्षतयोनिः स्यात्कुलीना पितृमातृतः।
ब्राह्मणादिषु विवाहेषु परिणीता यथाविधि।
सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते॥ 14-99-8(95502)
मनसा कर्मणा वाचा या गच्छेत्परपूरुषम्।
योनिस्तस्या नरश्रेष्ठ गर्भाधानं न चार्हति॥ 14-99-9(95503)
स्वैरिण्या यस्तु पापात्मा संतानार्थमिहेच्छति।
स कुलान्पातयत्याशु दशपूर्वान्दशापरान्॥ 14-99-10(95504)
दुष्टयोनौ तु यो मोहाद्रेतः सिञ्चति मूढधीः।
तद्रेतसा समुत्पन्नः षडङ्गविदपि द्विजः।
साधुभिः स बहिष्कार्यः श्वापाक इव पार्थिवा॥ 14-99-11(95505)
कर्मणा मनसा वाचा या भवेत्स्वैरचारिणी।
सा कुलघ्रीति विज्ञेया तस्यां जातः श्वपाचकः॥ 14-99-12(95506)
दैवे पित्र्ये तथा दाने भोजने सहभाषणे।
शयने सहसंबन्धे न योग्या दृष्टयोनिजाः॥ 14-99-13(95507)
न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः।
मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम्॥ 14-99-14(95508)
कानीकनश्च सहोञश्च तथोभौ कुण्डगोलकै।
आरूढपतिताज्जातः परितस्यापि यः सुतः।
षडेते विप्रचण्डाला निकृष्टाः श्वपचादपि॥ 14-99-15(95509)
यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत्।
कामचारी स पापात्मा बीजं तस्याशुभं भवेत्॥ 14-99-16(95510)
अशुद्धं तद्भवेद्बीजं शुद्धां योनि न चार्हति।
दूषयत्यपि तां योनिं शुना लीढं हविर्यथा॥ 14-99-17(95511)
शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः।
कुर्यात्पुरीषगर्तेषु पतितोऽस्मीति दुःखितः॥ 14-99-18(95512)
मामधःपातयन्नेष पापात्मा काममोहितः।
अधोगतिं प्रजोत्क्षिप्रमिति शप्त्वा पतेत्तु तत्॥ 14-99-19(95513)
आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत्।
तस्मात्सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः॥ 14-99-20(95514)
आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः।
पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया॥ 14-99-21(95515)
अविप्लुतब्रह्मचर्यैर्गृहस्थश्रममाश्रितैः।
पञ्चयज्ञपरैर्धर्मः स्थाप्यते पृथिवीतले॥ 14-99-22(95516)
सायंप्रातस्तु ये सन्ध्यां सम्यङ्नित्यमुपासते।
नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च॥ 14-99-23(95517)
यो जपेत्पावनीं देवीं गायत्रीं वेदमातरम्।
न सीदेत्प्रतिगृह्णानः पृथिवीं च ससागराम्॥ 14-99-24(95518)
ये चास्य दुःस्थिताः केचिद्ग्रहाः सूर्यादयो दिवि।
ते चास्य सौम्या जायन्ते शिवाः शुभकरास्तथा॥ 14-99-25(95519)
यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः।
घोररूपा महाकाया धर्षयन्ति न तं द्विजम्॥ 14-99-26(95520)
पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी॥ 14-99-27(95521)
अचीर्णिव्रतवेदा ये विकर्मफलमाश्रिताः।
ब्राह्ममा नाममात्रेण तेऽपि पूज्या युधिष्ठिर।
किं पुनर्यस्तु सन्ध्ये द्वे नित्यमेवोपतिष्ठते॥ 14-99-28(95522)
शीलमध्ययनं दानं शौचं मार्दवमार्जवम्।
तस्माद्वेदाद्विशिष्टानि मनुराह प्रजापतिः॥ 14-99-29(95523)
भूर्भुवस्स्वरिति ब्रह्म यो वेदनिरतो द्विजः।
स्वदारनिरतो दान्तः स विद्वान्स च भूसुरः॥ 14-99-30(95524)
सन्ध्यामुपासते ये वै नित्यमेव द्विजोत्तमाः।
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः॥ 14-99-31(95525)
सावित्रीमात्रसारोपि वरो विप्रः सुयन्त्रितः।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी॥ 14-99-32(95526)
सावित्रीं चैव वेदांश्च तुलयाऽतोलयन्पुरा।
सदेवर्षिगणाश्चैव सर्वे ब्रह्मपुरस्सराः।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी॥ 14-99-33(95527)
यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः।
एवं गृहीता सावित्री सर्ववेदे च पाण्डवः॥ 14-99-34(95528)
तस्मात्तु सर्ववेदानां सावित्री प्राण उच्यते।
निर्जीवा हीतरे वेदा विना सावित्रिया नृपः॥ 14-99-35(95529)
नायन्त्रितश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः।
शीलवृत्तसमायुक्तः सावित्रीपाठको वरः॥ 14-99-36(95530)
सहस्रपरमां देवीं शतमध्यां दशावराम्।
सावित्रीं जप कौतेय सर्वपापप्रणाशिनीम्॥ 14-99-37(95531)
युधिष्ठिर उवाच। 14-99-38x(7948)
त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि।
नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा॥ 14-99-38(95532)
भागवानुवाच। 14-99-39x(7949)
यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत्।
करोति चेन्नमस्कारमुपहारं च कारयेत्॥ 14-99-39(95533)
स्तौति यः स्तुतिभिर्मां च ऋग्यजुस्सामभिः सदा।
न तोषयति चेद्धिप्रान्नाहं तुष्यामि भारत॥ 14-99-40(95534)
ब्राह्मणे पूजिते नित्यं पूजितोस्मि न संशयः।
आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ॥ 14-99-41(95535)
परा मयि गतिस्तेषां पूजयन्ति द्विजं हि ये।
यदहं द्विजरूपेण वसामि वसुधातले॥ 14-99-42(95536)
यस्तान्पूजयति प्राज्ञो मद्गतेनान्तरात्मना।
तमहं स्वेन रूपेण पश्यामि नरपुङ्गव॥ 14-99-43(95537)
कुब्जाः काणा वामनाश्च दरिद्रा व्याधितास्तथा।
नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः॥ 14-99-44(95538)
ये केचित्सागरान्तायां पृथिव्यां द्विजसत्तमाः।
मम रूपं हि तेष्वेवमर्चितेष्वर्चितोऽस्म्यहम्॥ 14-99-45(95539)
बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः।
यदहं द्विजरूपेण वसामि वसुधातले॥ 14-99-46(95540)
अवमन्यन्ति ये विप्रान्स्वधर्मान्पातयन्ति ते।
प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च॥ 14-99-47(95541)
मृतांश्चात्र परत्रेमान्यमदूता महाबलाः।
निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः॥ 14-99-48(95542)
आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु।
तान्मृतान्यमलोकस्थान्निपात्य पृथिवीतले॥ 14-99-49(95543)
आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः।
अग्निवर्णैस्तु संदंशैर्यमो जिह्वां समुद्धरेत्॥ 14-99-50(95544)
ये च विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः॥ 14-99-51(95545)
तेषां घोरा महाकाया वक्रतुण्डा महाबलाः।
उद्धरन्ति मुहूर्तेन स्वगाश्चक्षुर्यमाज्ञया॥ 14-99-52(95546)
यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम्।
अस्थिभङ्गं च यः कुर्यात्प्राणैर्वा विप्रयोजयेत्।
सोनुपूर्व्येण यातीमान्नरकानेकविंशतिम्॥ 14-99-53(95547)
शूलमारोप्यते पश्चाज्ज्वलने परिपच्यते।
बहुवर्षसहस्राणि पच्यमानस्त्ववाक्छिराः।
नावमुच्येत दुर्मेदा न तस्य क्षीयते गतिः॥ 14-99-54(95548)
ब्राह्मणान्वा विचार्यैव व्रजन्तै वधकाङ्क्षया।
शतर्वषसहस्राणि तामिस्रे परिपच्यते॥ 14-99-55(95549)
उत्पाद्य शोणितं गात्रात्संरंभमतिपूर्वकम्।
सपर्ययेण यातीमान्नरकानेकविंशतिम्॥ 14-99-56(95550)
तस्मान्नाकुशलं ब्रूयान्न शुष्कां गतिमीरयेत्।
न ब्रूयात्परुषां वाणीं न चैवैनानतिक्रमेत्॥ 14-99-57(95551)
ये विप्राञ्श्लक्ष्णया वाचा पूजयन्ति नरोत्तमाः।
अर्चितश्च स्तुतश्चैव तैर्भवामि न संशयः॥ 14-99-58(95552)
तर्जयन्ति च ये विप्रान्क्रोशयन्ति च भारत।
आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः॥ 14-99-59(95553)
यश्चन्दनैश्चागरुधूपदीपै-
रभ्यर्चयेत्काष्ठमयीं ममार्चाम्।
तेनार्चितो नैव भवामि सम्य-
ग्विप्रार्चनादस्मि समर्चितोऽहम्॥ 14-99-60(95554)
विप्रप्रसादाद्धरणीधरोऽहं
विप्रप्रसादादसुराञ्जयामि।
विप्रप्रसादाच्च सदक्षिणोऽहं
विप्रप्रसादादजितोऽहमस्मि॥ ॥ 14-99-61(95555)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकोनशततमोऽध्यायः॥ 99 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|